New!! Video Courses that you can watch and learn at your own convenience.
kastakaalaha sarvesham krate api bhavati
केषाञ्चित् मनसि, तेषां कृते कष्टकालः एव नागच्छति खलु इति भवति।अस्माकं कृते सर्वदा कष्टकालः भवति।तेषां कृते सर्वदा सुखस्य कालः एव इति सर्वत्र वदन्तः अपि भवन्ति।तदा अन्येषां मनसि अपि सामान्यतया अयं प्रश्नः उद्भवति - सत्यं खलु? ते सर्वदा सन्तोषेण एव भवन्ति।अतः तेषां कष्टकालः एव नास्ति इति।जगती ये सन्ति तेषां सर्वेषां कृते कष्टकालः अस्त्येव।किन्तु, केचन कष्टकालमपि सन्तोषेण एव स्वीकुर्वन्ति। किमर्थम् इत्युक्ते ते जानन्ति यत् जगति किमपि शाश्वतं न इति। अतः तेषां कृते कष्टकालः नास्ति इव भासते। अतः अध्यारभ्य एव वयमपि कष्टकालं सन्तोषेण स्वीकुर्मः।