Skip to main content

New!! Video Courses that you can watch and learn at your own convenience.

jalasamrakshanam

 

एषु दिनेषु जलाभावः सर्वत्र दृश्यते।बहवः जलसंरक्षणमपि कुर्वन्तः सन्ति।तथैव केचन तन्मार्गे प्रयत्नमपि कुर्वन्तः सन्ति।तथापि केचन तद्विषये तूष्णीम् एव सन्ति।अस्माकं कृते जलम् अस्ति, अग्रे किं भवति इति अग्रे एव पश्यामः।तदर्थम् इदानीमेव किमर्थं चिन्तनीयम् इति तेषाम् अभिप्रायः स्यात्।ये एवं चिन्तयन्ति तेषां कृते एकः प्रश्नः - भवन्तः गृहनिर्माणं कुर्वन्ति, तद् गृहं भवतां पुत्रादीनां कृते किमर्थं त्यक्त्वा गच्छन्ति? पुत्रादयः अपि तत्रैव वासं कुर्वन्तु इति खलु? पुनः निर्मितुं साध्यं गृहमेव पुत्रादीनां कृते भवन्तः त्यक्त्वा गच्छन्ति।सर्वैरपि पुनः निर्मितुम् असाध्यं जलं किमर्थं रिक्तं कृत्वा गन्तव्यम्? अतः कृपया जलसंरक्षणविषये एतावत्कालं ये तूष्णीम् आसन् तेऽपि अद्यारभ्य एव तन्मार्गे चिन्तयित्वा, संरक्षणमपि कुर्वन्तु।