Skip to main content

New!! Video Courses that you can watch and learn at your own convenience.

जीवने पराजयः सामान्यः

 

जीवने एकस्मिन् स्थले वा उत अन्यस्मिन् स्थले वा पराजयः सामान्यः।केचन एकस्मिन् स्थले एव पराजयं प्राप्नुवन्ति।किमर्थं ते पुनः पुनः एकस्मिन् स्थले एव पराजयं प्राप्नुवन्ति? इत्ययं प्रश्नः सहजतया उद्भवति।किमर्थम् इत्युक्ते ते केवलं, हो! अहं पराजितः इति चिन्तयन् भवन्ति।यदि केवलम् एवं चिन्तयन्ति तर्हि पराजयस्य कारणमेव न ज्ञायते।यावत्कालं पराजयस्य कारणं न जानन्ति तावत्कालं पुनः पुनः एकत्रैव पराजयं प्राप्नुवन्तः एव भवन्ति।तर्हि पराजयस्य कारणं कथं ज्ञातव्यम् इति प्रश्नः सहजः खलु? यदा ते अहं किमर्थं पराजितः? कथं पराजितः? कुत्र पराजितः? इति एतान् प्रश्नान् स्वयं पृच्छन्ति।तदा पराजयस्य कारणं ज्ञात्वा ते पुनः पुनः पराजयं न प्राप्नुवन्ति।अतः वयमपि यदा पराजयं प्राप्नुमः तदा एतान् प्रश्नान् स्वयं पृष्ट्वा, पराजयस्य कारणं जानीमः। अपि च विजयं प्राप्य उत्तरोत्तरम् अभिवृद्धिमपि प्राप्नुमः।